श्रीहर्षस्य व्यक्तित्वकृतित्वयोः विश्लेषणात्मकम् अध्ययनम्

Authors

  • अञ्जन कुमार विश्वासः Author

Keywords:

प्रौढकवित्वशक्तिः, धार्मिकसहिष्णु, कवित्वपरिपाकः, उदात्तकल्पनाशक्तिः, निष्कण्टकस्वामी , काव्यशास्त्रीयप्रौढता, अन्वेषणकार्यम्, काव्यप्रयोजनम्।

Abstract

            संस्कृतसाहित्याकाशे विद्योतन्ते सहस्रसः काव्यनक्षत्राणि। कवरत्नानि च सन्ति अपरिमिताः संस्कृतकाव्यरत्नाकरे। परन्तु तेषु असंख्येषु कविरत्नेषु हर्षवर्धणः एव कौस्तुभमणिवद् विभाति। अत्र प्रश्नः समुदेति किमर्थं कविः श्रीहर्ष एव तस्मिननुपमे यशः सागरे अवगाहते ? किमर्थं स एव संस्कृतकाव्यकिरणसर्जकेषु सूर्य इव अप्रतीमज्योतिष्मान्नित देदीप्यते ? किं नास्ति तादृशः कश्चिदन्यः शास्त्रवेत्ता ? किं यादृशः कविः श्रीहर्षो विद्वानासीत् न तादृशः कश्चिदन्योऽस्ति ? एतेषां प्रश्नानामेकमेवोत्तरं तदीयकाव्य-परिशीलनेन ज्ञातुं शक्यते। मानवताया अन्त-स्तलावगाहनद्वारा कविः श्रीहर्षः रूपकानि रचयमास। तदीयरूपकेषु सत्य-शील-शौर्य-धृति-क्षमा-दया-दम-शम-त्याग-विवेक-परोपकार-गुरुसुश्रूषा-प्रेम-वात्सल्य-विनयार्जवाहिंसादि-शाश्वतमूल्यानि प्रतिपदं दृश्यन्ते। अस्मिन् लगुशोधप्रवन्धे श्रीहर्षेस्य व्यक्तित्वं एवं कृतित्वम् सविस्तारेण आलोच्यितमस्ति।

Author Biography

  • अञ्जन कुमार विश्वासः

    विद्यावारिधिः गवेषकः, कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः, नलबारी, असमप्रदेशः

Downloads

Published

2025-11-14

Issue

Section

Articles