श्रीजीवन्यायतीर्थविरचितस्य दरिद्रदुर्दैवप्रहसनस्य अर्थप्रकृतिविश्लेषणम् – एकः विमर्शः
Keywords:
संस्कृतवाङ्मयः, आधुनिकसंस्कृतसाहित्यम्, प्रहसनम्, अर्थप्रकृतिः, दरिद्रदुर्दैवम्।Abstract
संस्कृतवाङ्मयस्य सर्वांगपूर्णता विशालता च सर्ववेदितम्। एतद् ज्ञान-विज्ञानस्य वृहत् भाण्डार: वर्तते , अर्थात् धर्म:, अर्थ:, काम:, मोक्षश्च पुरुषार्थचतुष्टयस्य कोऽपि अंश: नास्ति यस्य विवेचनमत्र न प्राप्यते। अपि च हृदयजगतस्य सर्वानुभूते: भव्यनिदर्शनमपि निहितमस्ति। बुद्धिः तथा च हृदयस्य आकांक्षाणां अपेक्षाणां च विशदवर्णनम् अत्रैव दृश्यते, अन्यत्र तु दुर्लभमस्ति। अलौकिककाव्यजगतस्य श्रष्टारः कवय: न केवलं काव्यभेदानां सर्जन्ते, अपि च काव्यस्य मर्मज्ञविद्वांसः तत्सर्वस्य मननं चिन्तनञ्च कृत्वा स्वरूपं तथा च भेद: क्रियन्ते, अतः तद्काव्यभेदेषु भेदमेकमस्ति दृश्यकाव्यं रूपकं वा। नाट्यं रूपके वा जगत्सर्वस्य ज्ञानं-विज्ञानं, शिल्पविद्या, कलाकर्मादि प्रतिविम्बते। आलंकारिकाः यथार्थरूपकसर्जनार्थं नान्दी, अर्थप्रकृतिः, कार्यावस्था, अर्थपक्षेपकः, सन्धिः, भरतवाक्यम् इति नाट्योपादानानां प्रयोजनियत्वं स्वीकुर्वन्ति। एतेषु उपादानेषु अर्थप्रकृति अन्यतमभूमिकां निर्वाहयति। अतः प्रस्तुतलघुशोधप्रबन्धेऽस्मिन् दरिद्रदुर्दैवम् इति प्रहसने प्राप्तः अर्थप्रकृतिः मया विवेचितम् ।